ज्योतिष/धर्मझारखंडराज्यविचार

सनातन की शक्ति मंत्रों में निहित है, आवश्यकता है उसे जानने और उपयोग में लाने की, तभी भारत विश्व गुरु बन पाएगा – नवेंदु मिश्र

नवेंदु मिश्र

नित्य उपयोगि मन्त्र संग्रह (विशेषतः वैद्य उपयोगि)

१) औषधी संग्रहण मन्त्र (कामरत्न तन्त्रम्)
ॐ वेतालाश्च पिशाचाश्च राक्षसाश्च सरीसृपाः ।
अपसर्पन्तु ते सर्वे वृक्षादस्माच्छिवाज्ञया ।।

ॐ नमस्तेऽमृत सम्भूते बल वीर्य विवर्धने ।
बलंआयुश्च मे देहि पापन् ने त्राहि सर्वत: ।।

२) पारद सह कार्य समये पारद गतिरोधय मन्त्र
ॐ अघोरेभ्यो थगोरेभ्यो घोर घोर तरेभ्यः।
सर्वेभ्यः सर्व सर्वेभ्यो नमस्तेस्तु रूद्र रूपेभ्यः।।

३) उत्तिष्ठात् पश्चात् करतल दर्शन मन्त्र
ॐ कराग्रे वसते लक्ष्मीः करमूले सरस्वति।
करमध्ये तु गोविन्दं प्रभाते करदर्शनम्।।

४) प्रथम पृथ्वी पादस्पर्श समये पृथ्वी क्षमायाचन मन्त्र
ॐ समुद्र वसने देवी पर्वतस्तनमण्डले।
विष्णुपत्नी नमस्तुभ्यं पादस्पर्श क्षमस्व मे ।।

५) शौच विधि मन्त्र
ॐ उत्तिष्ठन्तु सर्वे देवाः न स्थातव्यम् महीतले ।
मलमूत्रं करिष्यामि स्थान रिक्तं विधीयताम् ।।

६) दन्तकाष्ठ ग्रहण काले एवं दन्तधावन समये वनस्पति स्तुति (कात्यायनस्मृतिः एवं काशीखंड)
ॐ आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च ।
ब्रह्म प्रज्ञां च मेधा च त्वं नो देहि वनस्पते ।।

अन्नाद्याय व्यूहध्वं सोमो राजाऽयमागमत् ।
स मे मुखं प्रमार्क्ष्यते यशसा च भगेन च।।

७) गर्भाधान काले प्रयुञ्जीत मन्त्र (चरक संहिता एवं ऋगेवद)
ॐ अहिरसि आयुरसि सर्वत: प्रतिष्ठाऽसि धाता त्वा ददतु विधाता त्वा दधातु ब्रह्मवर्चसा भव इति। ब्रह्मा बृहस्पतिर्विष्णु: सोमहसुर्यस्तथाऽश्विनौ। भगोऽथ मित्रावरुणौ वीरं ददतु मे सतम्।

ॐ विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।
आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते।।
गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।
गर्भं ते अश्विनौ देवावा धत्तां पुष्करस्रजा ।।
हिरण्ययी अरणी यं निर्मन्थतो अश्विना ।
तं ते गर्भं हवामहे दशमे मासि सूतवे ।।

८) वमनविरेचनर्थ भैषज प्रयोगार्थे ( अष्टांगहृदय )
ॐ ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानिलानलाः|
ऋषयः सौषधिग्रामा भूतसङ्घाश्च पान्तु वः|।
रसायनमिवर्षीणाममराणामिवामृतम्|
सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते|।

औम् नमो भगवते
भैषज्यगुरवे वैडूर्यप्रभराजाय|
तथागतायार्हते सम्यक्सम्बुद्धाय|

औम् भैषज्ये भैषज्ये महाभैषज्ये समुद्रते स्वाहा ।

९) भोजन प्रारम्भे अग्नि स्तुति मन्त्र (भगवतगीतां एवं चरक संहिता)
ॐ अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्।।

ॐ आयुर्वर्णो बलं स्वास्थ्यमुत्साहोपचयौ प्रभा।
ओजस्तेजोऽग्नयः प्राणाश्चोक्ता देहाग्निहेतुकाः।।
शान्तेऽग्नौ म्रियते, युक्ते चिरं जीवत्यनामयः।
रोगी स्याद्विकृते, मूलमग्निस्तस्मान्निरुच्यते ।।

१०) भोजन प्रारम्भे अन्नस्तुति मन्त्र (ब्रह्मवैवर्त पुराण)
ॐ अन्नं ब्रह्मा रसं विष्णु भोक्ता देवो महेश्वर:।
एवं ध्यात्वा तु यो भुक्ते, सोन्न दोषो न लिप्यते

११) भोजनग्रे ब्रह्मार्पणं मन्त्र
ॐ ब्रहमार्पणं ब्रहमहविर्‌ब्रहमाग्नौ ब्रहमणा हुतम्।
ब्रहमैव तेन गन्तव्यं ब्रहमकर्मसमाधिना

ॐ सह नाववतु।
सह नौ भुनक्तु।
सह वीर्यं करवावहै।
तेजस्विनावधीतमस्तु।
मा विद्विषावहै ॥
ॐ शान्ति: शान्ति: शान्ति:: ॥

१२) प्रथमग्रासे जठरग्नि आहुति मन्त्र (छान्दोग्योपनिषत्)
ॐ प्राणाय स्वाहा ।

१३) द्वितीयग्रासे जठरग्नि आहुति मन्त्र(छान्दोग्योपनिषत्)
ॐ व्यानाय स्वाहा ।

१४) तृतीयग्रासे जठरग्नि आहुति मन्त्र (छान्दोग्योपनिषत्)
ॐ अपानाय स्वाहा ।

१५) चतुर्थग्रासे जठरग्नि आहुति मन्त्र (छान्दोग्योपनिषत्)
ॐ समानाय स्वाहा ।

१६) पञ्चम्ग्रासे जठरग्नि आहुति मन्त्र (छान्दोग्योपनिषत्)
ॐ उदानाय स्वाहा ।

१७) भोजन पश्चात् सम्यक् पाचनार्थ मन्त्र
ॐ अगस्त्यं वैनतेयं च शनिं च वडवानलम्।
अन्नस्य परिणामार्थं स्मरेद् भीमं च पञ्चमम्।।

आतापी मारितो येन वातापी च निपातितः ।
समुद्रः शोषितो येन स मेऽगस्त्यः प्रसीदतु ।।

१८) स्नान काले सर्व पवित्र स्रोतांसि आह्वान मन्त्र
ॐ पुष्कराद्यानि तीर्थानि गंगाद्या सरितस्तथा।
आगच्छन्तु पवित्राणि स्नान काले सदा मम।।
ॐ गंगे च यमुनै चैव गोदावरी सरस्वती ।
नर्मदे सिन्धु कावेरी जलेस्मिन सन्निधिम कुरु।।

१९) स्नान द्वारा स्व कल्यानार्थ आपो देवता प्रार्थना मन्त्र (शुक्ल यजुर्वेद)
ॐ आपो हि स्था मयोभुवस्था न ऊर्जे दधातन
महे रणाथ चक्षसे ।।1।।
ॐ यो वः शिवतमो रसस्तस्य भजायतेह नः ।
उष्टैरिव मातरः ॥2॥
ॐ तस्मा अरं गमाम् वो यस्य क्षयाय जिन्वथ।
आपो जनयथा च नः ॥3॥
ॐ शं नो देवीभिष्टय आपो भवन्तु पीतये ।
शं योरभि स्रवन्तु नः ॥4॥

२०) स्नानार्थ युञ्जीत मृतिका प्रार्थना मन्त्र (ऊर्ध्वपुण्ड्रोपनिषत्)
ॐ अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे ।
मृत्तिके हर मे पापं जन्मकोटयां समर्जितम् ॥

२१) स्नान पर्यंत उच्चारणार्थ मन्त्र
ॐ त्वं मात: सर्वभूतानां जीवनं तत्तु रक्षकम्।
स्वेदजोद्भिज्जजातीनां रसानां पतये नम:॥
स्नातोSहं सर्वतीर्थेषु ह्रदप्रस्रवणेषु च्।
नदीषु देवखातेषु इदं स्नानं तु मे भवेत्॥

२२) वस्त्र धारण समये मन्त्र (पारस्करगृह्यसूत्रम्)
ॐ परिधास्यै यशोधास्यै
दीर्घायुत्वाय जरदष्टिरस्मि ।
शतं च जीवामि शरदः पुरूची
रायस्पोषमभिसंव्ययिष्ये ।।

२३) शयन मन्त्र (दुर्गासप्तशती)
ॐ या देवी सर्वभूतेषु निद्रारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।

वैद्य दिव्येश सोनगरा 🙏🏻

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button